|
|
 |
 |
|
|
७ द्रोणपर्व.jpg)
॥ श्रीः ॥
7.9. अध्यायः 009
Mahabharata - Drona Parva - Chapter Topics
द्रोणमरणश्राविणो धृतराष्ट्रस्य तद्गुणानुवर्णनपूर्वकं शोचनम्॥ 1 ॥

Mahabharata - Drona Parva - Chapter Text
धृतराष्ट्र उवाच। 7-1-0x(4281)(44918)
किं कुर्वाणं रणे द्रोणं जघ्रुः पाण्डवसृञ्जयाः।
तथा निपुणमस्त्रेषु सर्वशस्त्रभृतामपि॥ 7-1-1(44919)
रथः पर्यपतद्वाऽस्य धनुर्वाऽशीर्यतास्यतः।
प्रमत्तो वाऽभवद्दोणो यथा मृत्युमुपेयिवान्॥ 7-1-2(44920)
कथं नु पार्षतस्तात शत्रुभिर्दुष्प्रधर्षणम्।
किरन्तमिषुसङ्घातान्रुक्मपुङ्खाननेकशः॥ 7-1-3(44921)
क्षिप्रहस्तं द्विजश्रेष्ठं कृतिनं चित्रयोधिनम्।
दूरेषुपातिनं दान्तमस्त्रयुद्धेषु पारगम्॥ 7-1-4(44922)
पाञ्चालपुत्रो न्यवधीद्दिव्यास्त्रधरमच्युतम्।
कुर्वाणं दारुणं कर्म रणे यत्तं महारथम्॥ 7-1-5(44923)
व्यक्तं हि दैवं बलवत्पौरुषादिति मे मतिः।
यद्द्रोणो निहतः शूरः पार्षतेन महात्मना॥ 7-1-6(44924)
अस्त्रं चतुर्विधं वीरे यस्मिन्नासीत्प्रतिष्ठितम्।
तमिष्वस्त्रधराचार्यं द्रोणं शंससि मे हतम्॥ 7-1-7(44925)
श्रुत्वा हतं रुक्मरथं वैयाघ्रपरिवारणम्।
जातरूपपरिष्कारं नाद्य शोकमपानुदे॥ 7-1-8(44926)
न नूनं परदुःखेन म्रियते कोऽपि सञ्जय।
यत्र द्रोणमहं श्रुत्वा हतं जीवामि मन्दधीः।
दैवमेव परं मन्ये नन्वनर्थं हि पौरुषम्॥ 7-1-9(44927)
अश्मसारमयं नूर्न हृदयं सुदृढं मम।
यच्छ्रुत्वा निहतं द्रोणं शतधा न विदीर्यते॥ 7-1-10(44928)
ब्राह्मे दैवे तथेष्वस्त्रे यमुपासन्गुणार्थिनः।
ब्राह्मणा राजपुत्राश्च स कथं मृत्युना हृतः॥ 7-1-11(44929)
शोषणं सागरस्येव मेरोरिव विसर्पणम्।
पतनं भास्करस्येव न मृष्ये द्रोणपातनम्॥ 7-1-12(44930)
दुष्टानां प्रतिषेद्धासीद्धार्मिकाणां च रक्षिता।
योऽहासीत्कृपणस्यार्थे प्राणानपि परन्तपः॥ 7-1-13(44931)
मन्दानां मम पुत्राणां जयाशा यस्य विक्रमे।
बृहस्पत्युशनस्तुल्यो बुद्ध्या स निहतः कथम्॥ 7-1-14(44932)
`गुणानां सर्वयोधानां स्थितिरासीन्महाद्युतिः।
यं मृत्युर्वशगस्तिष्ठेत्स कथं मृत्युना हतः'॥ 7-1-15(44933)
ते च शोणा बृहन्तोऽश्वाश्छन्ना जालैर्हिरण्मयैः।
रथे वातजवा युक्ताः सर्वशस्त्रातिगा रणे॥ 7-1-16(44934)
बलिनो हेषिणो दान्ताः सैन्धवाः साधुवाहिनः।
दृढाः सङ्ग्राममध्येषु कच्चिदासन्न विह्वलाः॥ 7-1-17(44935)
करिणां बृंहतां युद्धे शङ्खदुन्दुभिनिःस्वनैः।
ज्याक्षेपशरवर्षाणां शस्त्राणां च सहिष्णवः॥ 7-1-18(44936)
आशंसन्तः पराञ्जेतुं जितश्वासा जितव्यथाः।
हयाः पराजिताः शीघ्रा भारद्वाजरथोद्वहाः॥ 7-1-19(44937)
ते स्म रुक्मरथे युक्ता नरवीरसमास्थिताः।
कथं नाभ्यतरंस्तात पाण्डवानामनीकिनीम्॥ 7-1-20(44938)
जातरूपपरिष्करामास्थाय रथमुत्तमम्।
भारद्वाजः किमकरोद्युधि सत्यपराक्रमः॥ 7-1-21(44939)
विद्यां यस्योपजीवन्ति सर्वलोकधनुर्धराः।
स सत्यसन्धो बलवान्द्रोणः किमकरोद्युधि॥ 7-1-22(44940)
दिवि शक्रमिव श्रेष्ठं महामात्रं धनुर्भृताम्।
के नु तं रौद्रकर्माणं युद्धे प्रत्युद्ययू रथाः॥ 7-1-23(44941)
ननु रुक्मरथं दृष्ट्वा प्राद्रवन्ति स्म पाण्डवाः।
दिव्यमस्त्रं विकुर्वाणं रणे तस्मिन्महाबलम्॥ 7-1-24(44942)
उताहो सर्वसैन्येन धर्मराजः सहानुजः।
पाञ्चालप्रग्रहो द्रोणं सर्वतः समवारयत्॥ 7-1-25(44943)
नूनमावारयत्पार्थो रथिनोऽन्यानजिह्मगैः।
ततो द्रोणं समहरत्पार्षतः पापकर्मकृत्॥ 7-1-26(44944)
नह्यहं परिपश्यामि वधे कञ्चन शुष्मिणः।
धृष्टद्युम्नादृते रौद्रात्पाल्यमानात्किरीटिना॥ 7-1-27(44945)
`उताहो सर्वसैन्येन धर्मराजः सहानुजः।
उत्सृज्य सर्वसैन्यानि द्रोणं तमभिदुद्रुवे'॥ 7-1-28(44946)
तैर्वृतः सर्वतः क्षुद्रैः पाञ्चालापशदैस्ततः।
केकयैश्चेदिकारूशैर्मत्स्यैरन्यैश्च भूमिपैः॥ 7-1-29(44947)
व्याकुलीकृतमाचार्यं पिपीलैरुरगं यथा।
कर्मण्यसुकरे सक्तं जघानेति मतिर्मम॥ 7-1-30(44948)
योऽधीत्य चतुरो वेदान्साङ्गानाख्यानपञ्चमान्।
ब्राह्मणानां प्रतिष्ठासीत्स्रोतसामिव सागरः॥ 7-1-31(44949)
क्षत्रं च ब्रह्म चैवेह योऽभ्यतिष्ठत्परन्तपः।
`दृप्तानां प्रतिषेद्धा च चक्षुरासीदचक्षुषाम्॥ 7-1-32(44950)
अमर्षी चावलिप्तेषु धार्मिकेषु च धार्मिकः'।
स कथं ब्राह्मणो वृद्धः शस्त्रेण वधमाप्तवान्॥ 7-1-33(44951)
अमर्षिणा मर्षितवान्क्लिश्यमानान्सदा मया।
अनर्हमाणान्कौन्तेयान्कर्मणस्तस्य तत्फलम्॥ 7-1-34(44952)
यस्य कर्मानुजीवन्ति लोके सर्वधनुर्भृतः।
स सत्यसन्धः सुकृती श्रीकामैर्निहतः कथम्॥ 7-1-35(44953)
दिवि शक्र इव श्रेष्ठो महासत्वो महाबलः।
स कथं निहतः पार्थैः क्षुद्रमत्स्यैर्यथा तिमिः॥ 7-1-36(44954)
क्षिप्रहस्तश्च बलवान्दृढघन्वारिमर्दनः।
न यस्य विजयाकाङ्क्षी विषयं प्राप्य जीवति॥ 7-1-37(44955)
यं द्वौ न जहतः शब्दौ जीवमानं कदाचन।
ब्राह्मश्च वेदकामानां ज्याघोषश्च धनुष्मताम्॥ 7-1-38(44956)
अदीनं पुरुषव्याघ्रं हीमन्तमपराजितम्।
तमिष्वासवराचार्ये द्रोणं जघ्नुः कथं रथाः॥ 7-1-39(44957)
`नाहं मन्ये हतं द्रोणं स हि लोकमयोत्स्यत।
को हि शक्तो रणे जेतुमनाधृष्ययशोबलम्॥ 7-1-40(44958)
ब्रह्मकल्पो भवेद्ब्राह्मे क्षात्रे नारायणोपमः।
ब्रह्मक्षत्रे च यस्यास्तां वशे स्थाणोरिवाखिले॥ 7-1-41(44959)
सर्वान्हि मामकान्वीरान्सहाश्वरथकुञ्जरान्।
युधिष्ठिरस्य तपसा हतान्मन्यामहे कुरून्'॥ 7-1-42(44960)
कथं सञ्जय दुर्धर्षमनाधृष्ययशोबलम्।
पश्यतां पुरुषेन्द्राणां समरे पार्षतोऽवधीत्॥ 7-1-43(44961)
के पुरस्तादयुध्यन्त रक्षन्तो द्रोणमन्तिकात्।
के नु पश्चादवर्तन्त गच्छतो दुर्गमां गतिम्॥ 7-1-44(44962)
केऽरक्षन्दक्षिणं चक्रं सव्यं के च महात्मनः।
पुरस्तात्के च वीरस्य युध्यमानस्य संयुगे॥ 7-1-45(44963)
के च तस्मिंस्तनूस्त्यक्त्वा प्रतीपं मृत्युमाव्रजन्।
द्रोणस्य समरे वीराः केऽकुर्वन्त परां धृतिम्॥ 7-1-46(44964)
कच्चिन्नैनं भयान्मन्दाः क्षत्रिया व्यजहन्रणे।
रक्षितारस्ततः शून्ये कच्चित्तैर्न हतः परैः॥ 7-1-47(44965)
न स पृष्ठमरेस्त्रासाद्रणे शौर्यात्प्रदर्शयेत्।
परामप्यापदं प्राप्य स कथं निहतः परैः॥ 7-1-48(44966)
एतदार्येण कर्तव्यं कृच्छ्रास्वापत्सु सञ्जय।
पराक्रमेद्यथा शक्त्या तच्च तस्मिन्प्रतिष्ठितम्।
`यो यथाशक्ति युद्ध्येत द्विषद्भिःस्वांश्च पालयन्॥ 7-1-49(44967)
कच्चिन्नैनं भयात्क्षुद्राः पार्थेभ्यः प्रददू रणे।
गोप्तृभिस्तैः समुत्सृष्टः कच्चिन्नैष परैर्हतः॥ 7-1-50(44968)
धृष्टद्युम्नं प्रपश्यामि निघ्नन्तमिव ब्राह्मणम्।
वार्यमाणं रणे तात द्रौणिनाऽमिततेजसा'॥ 7-1-51(44969)
मुह्यते मे मनस्तात कथा तावन्निवार्यताम्।
भूयस्तु लब्धसंज्ञस्त्वां परिपृच्छामि सञ्जय॥ ॥ 7-1-52(44970)
इति श्रीमन्महाभारते द्रोणपर्वणि द्रोणाभिषेकपर्वणि नवमोऽध्यायः॥ 9 ॥
Mahabharata - Drona Parva - Chapter Footnotes
5-1-2 अस्यतः शरानिति शेषः॥ 5-1-17 बलिनस्तेजस्विनः॥ 5-1-23 महामात्रं प्रधानम्॥ 5-1-25 पाञ्चालम्प्रग्रहः पाञ्जालः प्रग्रहो बन्धरजुर्यस्य 5-1-27 शुष्मिणस्तेजस्विनः॥ 5-1-29 अपशदोऽधमः॥ 5-1-31 आख्यानं पुराणभारतादि॥ 5-1-9 नवमोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|